प्रनवउँ
पवनकुमार
खल
बन
पावक
ज्ञानघन
|
जासु
हृदय
आगार
बसहिं
राम
सरचाप
धर
||१||
अतुलितबलधामं
हेमशैलाभदेहम्
|
दनुजवनकृशानुं
ज्ञानिनामग्रगण्यम् ||२||
सकलगुणनिधानं
वानराणामधीशम्
|
रघुपतिप्रियभक्तं
वातजातं
नमामि
||३||
गोष्पदीकृतवारीशं
मशकीकृतराक्षसम्
|
रामायणमहामालारत्नं
वन्देऽनिलात्मजम्
||४||
अञ्जनानन्दनं
वीरं
जानकीशोकनाशनम्
|
कपीशमक्षहन्तारं
वन्दे
लङ्काभयङ्करम्
||५||
महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |
कवयन्तं
रामकीर्त्या
हनुमन्तमुपास्महे
||६||
उल्लङ्घ्य
सिन्धो:
सलिलं
सलीलं
य:
शोकवह्निं
जनकात्मजाया:
|
आदाय
तेनैव
ददाह
लङ्कां
नमामि
तं
प्राञ्जलिराञ्जनेयम् ||७||
मनोजवं
मारुततुल्यवेगं
जितेन्द्रियं
बुद्धिमतां
वरिष्ठम्
|
वातात्मजं
वानरयूथमुख्यं
श्रीरामदूतं
शरणं
प्रपद्ये
||८||
आञ्जनेयमतिपाटलाननं
काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं
भावयामि
पवमाननन्दनम्
||९||
यत्र-यत्र
रघुनाथकीर्तनं
तत्र-तत्र
कृतमस्तकाञ्जलिम्
|
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत
राक्षसान्तकम्
||१०

0 comments:
Post a Comment